वांछित मन्त्र चुनें

त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय । त्वं नो॑ दे॒वता॑तये रा॒यो दाना॑य चोदय ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ no agne agnibhir brahma yajñaṁ ca vardhaya | tvaṁ no devatātaye rāyo dānāya codaya ||

पद पाठ

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । ब्रह्म॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ । त्वम् । नः॒ । दे॒वऽता॑तये । रा॒यः । दाना॑य । चो॒द॒य॒ ॥ १०.१४१.६

ऋग्वेद » मण्डल:10» सूक्त:141» मन्त्र:6 | अष्टक:8» अध्याय:7» वर्ग:29» मन्त्र:6 | मण्डल:10» अनुवाक:11» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (त्वम्) तू (अग्निभिः) विद्वानों के द्वारा (नः-ब्रह्म यज्ञं च वर्धय) हमारे वेदज्ञान और श्रेष्ठकर्म को बढ़ा (त्वं देवतातये) तू देवों के-विद्वानों के सत्कार के लिए (नः) हमको (रायः) धन के (दानाय) देने के लिए (चोदय) प्रेरित कर ॥६॥
भावार्थभाषाः - परमात्मा विद्वानों के द्वारा ब्रह्मयज्ञ और श्रेष्ठकर्म को बढ़ाता है तथा विद्वानों को देने के लिए धनों को बढ़ाता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने त्वम्) हे अग्रणायक परमात्मन् ! त्वं (अग्निभिः) विद्वद्भिः (नः-ब्रह्म यज्ञं च वर्धय) अस्माकं वेदज्ञानं श्रेष्ठकर्म च वर्धय (त्वं देवतातये) त्वं देवानां विदुषां सत्काराय “देवतातये-देवानां विदुषामेव सत्काराय” [ऋ० १।१३७।९ दयानन्दः] (नः-रायः-दानाय चोदय) धनस्य दानायास्मान् प्रेरय ॥६॥